This page has been fully proofread twice.

प्राणश्चेत्युच्यते, सर्वत्रानुस्यूतस्याज्ज्ञानेच्छाक्रियाशक्तिमदुपहितत्वाच्च । अस्यैषा समष्टिः
स्थूलप्रपञ्चापेक्षया सूक्ष्मत्वात्सूक्ष्मशरीरं विज्ञानमयादिकोशत्रयं जाग्रद्वासनामयत्वात्स्वप्नः, अत एव स्थूलप्रपञ्चलयस्थानमिति चोच्यते । एतद्व्यष्ट्युपहितं चैतन्यं तैजसो भवति, तेजोमयान्तःकरणोपहितत्वात् । अस्यापीयं व्यष्टिः स्थूलशरीरापेक्षया सूक्ष्मत्वादि-
 
[commentary]
 
ज्जीव एव, न त्वीश्वरः, 'सोऽबिभेत्' इत्यादिना भयवत्त्वादिश्रवणात् । व्यष्टिशब्देन च परिच्छिन्नानि लिङ्गशरीराण्युच्यन्ते । तदुपहिताश्चानेकेऽस्मदादयो जीवाः । व्यष्टिसमष्टिलिङ्गशरीरयोस्तु नाभेदः । तथा सति तदुपहितयोरप्यभेदे सर्वज्ञत्वादिधर्मसांकर्यप्रसङ्गात् । मूले त्वभेदशब्दः पूर्ववद्व्याख्येय इति सूत्रात्मेति व्यपदेशे युक्तिमाह -- सर्वत्रेति । 'वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि भूतानि संदृब्धानि' इति वचनादिति भावः । हिरण्यगर्भ इति व्यपदेशे युक्तिमाह -- ज्ञानेति ।
प्राण इति व्यपदेशे तामाह -- क्रियेति । अत एवेति ।