This page has not been fully proofread.

। ' वेदान्तसारः
 
प्राणवेत्युच्यते, सर्वत्रा नुस्यूतस्याज्ज्ञानेच्छा.
क्रियाशक्तिमदुपहितत्वाच्च । अस्यैषा समष्टिः
स्थूलप्रपञ्चापेक्षया सूक्ष्मत्वात्सूक्ष्मशरीरं वि
ज्ञानमयादिकोशत्रयं जाग्रद्वासनामयत्वात्स्व-
प्रः, अत एव स्थूलप्रपञ्चलयस्थानमिति चो-
च्यते । एतद्व्यष्ट्युपहितं चैतन्यं तैजसो भ-
वति, तेजोमयान्तःकरणोपहितत्वात् । अस्या
पीयं व्यष्टिः स्थूलशरीरापेक्षया सूक्ष्मत्वादि-
ज्जीव एव, न त्वीश्वरः, 'सोऽबिभेत्' इत्यादिना भयव-
त्त्वादिश्रवणात् । व्यष्टिशब्देन च परिच्छिन्नानि लिङ्गशरी-
राण्युच्यन्ते । तदुपहिताश्चाने केऽस्मदादयो जीवाः । व्यष्ट्रि-
समष्टिलिङ्गशरीरयोस्तु नाभेदः । तथा सति तदुपहितयो-
रप्यभेदे सर्वज्ञत्वादिधसांकर्यप्रसङ्गात् । मूले त्वभेदशब्द:
पूर्ववद्वयाख्येय इति सूत्रात्मेति व्यपदेशे युक्तिमाह -
सर्वत्रेति । 'वायुना वै गौतम सूत्रेणायं च लोकः परश्च
लोक: सर्वाणि भूतानि संहव्धानि' इति वचनादिति
भावः । हिरण्यगर्भ इति व्यपदेशे युक्तिमाह – ज्ञानेति ।
प्राण इति व्यपदेशे तामाह - क्रियेति । अत एवेति ।
 
-
 
६४