This page has been fully proofread twice.

वनवज्जलाशयवद्वा समष्टिः, अनेकवुबुद्धिविषयतया वृक्षवज्जलवद्वा व्यष्टिरपि भवति । एतत्समष्ट्युपहितं चैतन्यं सूत्रात्मा हिरण्यगर्भः
 
[commentary]
 
मूह इत्यापद्येत, अतिरिक्तोपाधेरभावात् । न च एतद्युक्तम्, हिरण्यगर्भस्य प्रभूतपुण्यजीवविशेषस्य अस्मदादिभ्यो भिन्नत्वेन श्रूयमाणत्वात् । किं च 'समः प्लुषिणा समो नागेन समो मशकेन' इत्यादिना 'वायुना वै गौतम सूत्रेण' इत्यादिना च हिरण्यगर्भलिङ्गशरीरस्य व्यापकत्वमेकत्वं च प्रतीयते । तत्परिच्छिन्नलिङ्गशरीरोपहितास्मदाद्यनेकजीवसमूहस्य हिरण्यगर्भत्वे न युज्यते । किं च 'ज्ञानमप्रतिहतं यस्य' इत्यादिना हिरण्यगर्भस्य सर्वज्ञत्वादि प्रतीयते । यदि च जीवसमूहस्य हिरण्यगर्भत्वं तदा समूहस्य समूहिभ्योऽतिरिक्तत्वाभावेनास्मदादीनामेव हिरण्यगर्भत्वेन सर्वज्ञत्वादिप्रसङ्गः । न चैतत्, अनुभवविरोधात् । तस्मान्न लिङ्गशरीरसमुदायः समष्टिरिति चेत्, सत्यम् । न लिङ्गशरीरममुदायः समष्टिः । किं तु व्यापकं लिङ्गशरीरं समष्टिशब्देनोच्यते । तदुपहितो हिरण्यगर्भ इति तस्य व्यापकत्वमेकत्वं च युज्यते । अयं चाधिकारिकः कश्चि-