This page has not been fully proofread.

बालबोधिनीसहितः ।
 
वनवज्जलाशयवद्धा समष्टिः, अनेकवुद्धिविष-
यतया वृक्षवज्जलवद्वा व्यष्टिरपि भवति । ए-
तत्समष्ट्युपहितं चैतन्यं सूतात्मा हिरण्यगर्भः
 
9
 
मूह इत्यापद्येत, अतिरिक्तोपाधेरभावात् । न च एतद्युक्तम्,
हिरण्यगर्भस्य प्रभूतपुण्यजीवविशेषस्य अस्मदादिभ्यो भिन्न-
त्वेन श्रूयमाणत्वात् । किं च 'सम: प्लषिणा समो नागेन
समो मशकेन' इत्यादिना 'वायुना वै गौतम सूत्रेण
इत्यादिना च हिरण्यगर्भलिङ्गशरीरस्य व्यापकत्वमेकत्वं चं
प्रतीयते । तत्परिच्छि भलिङ्गशरीरोपहितास्मदाद्यनेकजीवस-
मूहस्य हिरण्यगर्भत्वे न युज्यते । किं च 'ज्ञानमप्रतिहतं
यस्य' इत्यादिना हिरण्यगर्भस्य सर्वज्ञत्वादि प्रतीयते ।
यदि च जीवसमूहस्य हिरण्यगर्भत्वं तदा समूहस्य समू-
हिभ्योऽतिरिक्तत्वाभावेनास्मदादीनामेव हिरण्यगर्भत्वेन स-
र्वज्ञत्वादिप्रसङ्गः । न चैतत् अनुभवविरोधात् । तस्मान्न
लिङ्गशरीरसमुदाय: समष्टिरिति चेत्, सत्यम् । न लिङ्ग-
शरीरममुदाय: समष्टि: । किं तु व्यापकं लिङ्गशरीरं
समष्टिशब्देनोच्यते । तदुपहितो हिरण्यगर्भ इति तस्य
व्यापकत्वमेकत्वं च युज्यते । अयं चाधिकारिकः कश्चि-
-24