This page has been fully proofread twice.

दिगतरजोंशेभ्यो मिलितेभ्य उत्पद्यते । इदं प्राणादिपञ्चकं कर्मेन्द्रियैः सहितं सत् प्राणमयकोशो भवति । अस्य क्रियात्मकत्वेन रजोंशकार्यत्वम् । एतेषु कोशेषु मध्ये विज्ञानमयो ज्ञानशक्तिमान्कर्तृरूपः । मनोमय इच्छाशक्तिमान्करणरूपः । प्राणमयः क्रियाशक्तिमान्कार्यरूपः । योग्यत्वादेवमेतेषां विभाग इति वर्णयन्ति । एतत्कोशत्रयं मिलितं सत् सूक्ष्मशरीरमित्युच्यते ॥
 
अत्राप्यखिलसूक्ष्मशरीरमेकबुद्धिविषयतया
 
[commentary]
 
पञ्चभूतारभ्यत्वम् । इदमित्यादि सुगमम् । अस्येति, कर्मेन्द्रियपञ्चकस्य वायुपञ्चकस्य च इत्यर्थः ॥
 
अत्रापीति । ननु यथा वृक्षसमुदायो वनम्, तथा लिङ्गशरीरसमुदायो न समष्टिः । तथा सति वृक्षावच्छिन्नाकाशसमुदायो यथा वनावच्छिन्नाकाशो न त्वतिरिक्तोऽस्ति, अतिरिक्तोपाधेरभावात् ; एवं समष्टिलिङ्गशरीरोहितहिरण्यगर्भोऽपि परिच्छिन्नलिङ्गशरीरोपहितास्मदाद्यनेकजीवस-