This page has been fully proofread once and needs a second look.

वेदान्तसारः
 
दिगतरजोंशेभ्यो मिलितेभ्य उत्पद्यते । इदं
प्राणादिपञ्चकं कर्मेन्द्रियैः सहितं सत् प्राणमय-
कोशो भवति । अस्य क्रियात्मकत्वेन रजोंश-
कार्यत्वम् । एतेषु कोशेषु मध्ये विज्ञानमयो
ज्ञानशक्तिमान्कर्तृरूपः । मनोमय इच्छाशक्ति
मान्करणरूपः । प्राणमयः क्रियाशक्तिमान्का-
र्यरूपः । योग्यत्वादेवमेतेषां विभाग इति व
र्णयन्ति । एतत्कोशत्रयं मिलितं सत् सूक्ष्मश-
रीरमित्युच्यते ॥
 

 
अत्राप्यखिलसूक्ष्म शरीर मेकवुबुद्धिविषयतया
 

 
[commentary]
 
पञ्चभूतारभ्यत्वम् । इदमित्यादि सुगमम् । अस्येति, कर्मे-
न्द्रियपञ्चकस्य वायुपञ्चकस्य च इत्यर्थः ॥
 
६२
 

 
अत्रापीति । ननु यथा वृक्षसमुदायो वनम्, तथा लिङ्ग-
शरीरसमुदायो न समष्टि:टिः । तथा सति वृक्षावच्छिन्नाकाश-
समुदायो यथा वनावच्छिन्नाकाशो न त्वतिरिक्तोऽस्ति,
अतिरिक्तोपाधेरभावात् ; एवं समष्टिलिङ्गशरीरोहितहिर -
ण्यगर्भोऽपि परिच्छिन्नलिङ्गशरीरोपहितास्मदाद्यनेकजीवस-