This page has been fully proofread twice.

क्रमेणोत्पद्यन्ते । वायवः प्राणापानव्यानोदानसमानाः । प्राणो नाम प्राग्गमनवान्नासाग्रस्थानवर्ती । अपानो नामावाग्गमनवान्पाय्वादिस्थानवर्ती । व्यानो नाम विष्वग्गमनवानखिलशरीरवर्ती । उदानो नाम कण्ठस्थानीय ऊर्ध्वगमनवानुत्क्रमणवायुः । समानो नाम शरीरमध्यगताशितपीतान्नादिसमीकरणकरः । केचित्तु नागकूर्मकृकलदेवदत्तधनंजयाख्याः पञ्चान्ये वायवः सन्तीति वदन्ति । तत्र नाग उद्गिरणकरः । कूर्म उन्मीलनकरः । कृकलः क्षुतकरः । देवदत्तो जृम्भणकरः । धनंजयः पोषणकरः । एतेषां प्राणादिष्वन्तर्भावात्प्राणादयः पञ्चैवेति केचित् । एतत्प्राणादिपञ्चकमाकाशा-
 
[commentary]
 
मित्वात् । पृथगिति । वाग्व्योमविकारः पाणिर्वायुविकार इत्यादि स्वयमूह्यम् । अननं गमनम् । विष्वक् समन्तात् । समीकरणं साम्यावस्था । उद्भिरणम् उद्गारः । उन्मीलनं निमीलनस्योपलक्षणम् । प्राणस्याप्यन्तःकरणवत्साधारणत्वात्