This page has been fully proofread once and needs a second look.

बालबोधिनीसहितः ।
 
क्रमेणोत्पद्यन्ते । वायवः प्राणापानव्यानोदा
नसमानाः । प्राणो नाम प्राग्गमनवान्नासाग्रस्था-
नवर्ती । अपानो नामावाग्गमनवान्पाय्वादि-
स्थानवर्ती । न्व्यानो नाम विष्वग्गमनवानखि-
लशरीरवर्ती । उदानो नाम कण्ठस्थानीय ऊ
र्ध्र्वगमनवानुत्क्रमणवायु:युः । समानो नाम शरी-
रमध्यगताशितपीतान्नादिसमीकरणकरः
। केचित्तु नागकूर्मकृकलदेवदत्तधनंजयाख्याः पञ्चा-
न्ये वायवः सन्तीति वदन्ति । तत्र नाग उद्भि
गिरणकरः । कूर्म उन्मीलनकरः । कृकलः क्षुतक-
रः । देवदत्तो जृम्भ्रणकरः । धनंजयः पोषणक-
रः । एतेषां प्राणादिष्वन्तर्भावात्प्राणादयः प
ञ्चैवेति केचित् । एतत्प्राणादिपञ्चकमाकाशा-
। के
 
६९
 

 
[commentary]
 
मित्वात् । पृथगिति । वाग्व्योमविकार:रः पाणिर्वायुविकार
इत्यादि स्वयमूह्यम् । अननं गमनम् । विष्वक् समन्तात् ।
समीकरणं साम्यावस्था । उद्भिरणम् उद्गार:रः । उन्मीलनं नि-
मीलनस्योपलक्षणम् । प्राणस्याप्यन्तःकरणवत्साधारणत्वात्