2023-10-10 08:55:47 by Bharadwajraki
This page has been fully proofread twice.
गतसात्त्विकांशेभ्यो मिलितेभ्य उत्पद्यन्ते । एतेषां प्रकाशात्मकत्वात्सात्त्विकांशकार्यत्वम् । इयं
बुद्धिर्ज्ञानेन्द्रियैः सहिता विज्ञानमयकोशो भवति । अयं कर्तृत्वभोक्तृत्वसुखित्वदुःखित्वाद्यभिमानित्वेनेहलोकपरलोकगामी व्यावहारिको जीव इत्युच्यते । मनस्तु ज्ञानेन्द्रियैः सहितं सन्मनोमयकोशो भवति । कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्थाख्यानि । एतानि पुनराकाशादीनां रजोंशेभ्यो व्यस्तेभ्यः पृथक्पृथक्
[commentary]
दकभूतक्रमाद्द्रष्टव्यः । एते चित्तबुद्धिमनोहंकाररूपा अन्तःकरणभेदाः । मिलितेभ्य इति । अन्तःकरणस्य गन्धाद्युपलब्धौ साधारणत्वात्पञ्चभूतारभ्यत्वम् ।कक्वचित्तैजसत्वव्यपदेशस्तु तेजोबाहुल्यात् । अतः अन्तःकरणपरिणामभूतचित्तादीनां पञ्चभूतारभ्यत्वमिति द्रष्टव्यम् । श्रोत्रादेस्तु
शब्दाद्युपलब्धावसाधारणत्वाद्व्यस्तभूतारभ्यत्वमिति भावः । एतेषामिति, श्रोत्रादीनां चित्तादीनां च इत्यर्थः । प्रसङ्गादाह -- इयमित्यादिना । अयमिति, विज्ञानमय इत्यर्थः । एतच्च उपलक्षणम् । लिङ्गशरीरोपहितस्य इहलोकपरलोकगा-
बुद्धिर्ज्ञानेन्द्रियैः सहिता विज्ञानमयकोशो भवति । अयं कर्तृत्वभोक्तृत्वसुखित्वदुःखित्वाद्यभिमानित्वेनेहलोकपरलोकगामी व्यावहारिको जीव इत्युच्यते । मनस्तु ज्ञानेन्द्रियैः सहितं सन्मनोमयकोशो भवति । कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्थाख्यानि । एतानि पुनराकाशादीनां रजोंशेभ्यो व्यस्तेभ्यः पृथक्पृथक्
[commentary]
दकभूतक्रमाद्द्रष्टव्यः । एते चित्तबुद्धिमनोहंकाररूपा अन्तःकरणभेदाः । मिलितेभ्य इति । अन्तःकरणस्य गन्धाद्युपलब्धौ साधारणत्वात्पञ्चभूतारभ्यत्वम् ।