This page has been fully proofread once and needs a second look.

/ वेदान्तसारः
 
गतसात्त्विकांशेभ्यो मिलितेभ्य उत्पद्यन्ते । एते-
षां प्रकाशात्मकत्वात्सात्त्विकांश कार्यत्वम् । इयं

बुद्धिर्ज्ञानेन्द्रियैः सहिता विज्ञानमयकोशो भव-
ति । अयं कर्तृत्वभोक्तृत्वसुखित्वदुःखित्वाद्य-
60
 
भिमानित्वेनेहलोकपरलोकगामी व्यावहारि
को जीव इत्युच्यते । मनस्तु ज्ञानेन्द्रियैः सहि-
तं सन्मनोमयकोशो भवति । कर्मेन्द्रियाणि
वाक्पाणिपादपायूपस्थाख्यानि । एतानि पुन-
राकाशादीनां रजोंशेभ्यो व्यस्तेभ्यः पृथक्पृथक्
 

 
[commentary]
 
दकभूतक्रमाद्द्रष्टव्यः । एते चित्तबुद्धिमनोहंकाररूपा अन्त:-
तःकरणभेदाः । मिलितेभ्य इति । अन्तःकरणस्य गन्धाधु-
द्युपलब्धौ साधारणत्वात्पञ्चभूतारभ्यत्वम् । कचित्तैजसत्व-
व्यपदेशस्तु तेजोबाहुल्यात् । अतः अन्तःकरणपरिणामभूत-
चित्तादीनां पञ्चभूतारभ्यत्वमिति द्रष्टव्यम् । श्रोत्रादेस्तु

शब्दाद्युपलब्धावसाधारणत्वाद्व्यस्तभूतारभ्यत्वमिति भावः ।
एतेषामिति, श्रोत्रादीनां चित्तादीनां च इत्यर्थः । प्रसङ्गा-
दाह -- इयमित्यादिना । अयमिति, विज्ञानमय इत्यर्थः ।
एतच्च उपलक्षणम् । लिङ्गशरीरोपहितस्य इहलोकपरलोकगा-