This page has been fully proofread twice.

सूक्ष्मशरीराणि सप्तदशावयवानि लिङ्गशरीराणि । अवयवास्तु ज्ञानेन्द्रियपञ्चकं बुद्धिमनसी कर्मेन्द्रियपञ्चकं वायुपञ्चकं चेति । ज्ञानेन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणाख्यानि । एतान्याकाशादीनां सात्त्विकांशेभ्यो व्यस्तेभ्यः पृथक्पृथक् क्रमेणोत्पद्यन्ते । बुद्धिर्नाम निश्चयात्मिकान्तःकरणवृत्तिः । मनो नाम संकल्पविकल्पात्मिकान्तःकरणवृत्तिः । अनयोरेव
चित्ताहंकारयोरन्तर्भावः । एते पुनराकाशादि-
 
[commentary]
 
त्पत्तिः स्यात्, तदा यथा तत्रापञ्चीकृतानि तत्तत्कर्मानुरोधेन लिङ्गशरीरं जनयन्तीत्युक्तम्, तथा अपञ्चीकृतानि पञ्चीकृतानि जनयन्तीत्येवोक्तं स्यात्, न तु पञ्चीकृततामापद्यन्ते इत्युक्तं स्यादिति । तस्मान्नापञ्चीकृतेभ्यः पञ्चीकृतोत्पत्तिरिति । तथा च एतेभ्यः स्थूलभूतान्युत्पद्यन्त इत्यनेन संयोगविशेषस्यैवोत्पत्तिरुक्ता भवतीति ज्ञेयम् ॥
 
सूक्ष्मशरीराणि निरूपयति -- सूक्ष्मेति । सप्तेति । सप्तदश अवयवा एकदेशा येषां तानि । श्रोत्रादीनां क्रमः तदुत्पा-