This page has been fully proofread once and needs a second look.

बालबोधिनीसहितः :।
 
सूक्ष्मशरीराणि सप्तदशावयवानि लिङ्गश
रीराणि । अवयवास्तु ज्ञानेन्द्रियपञ्चकं बुद्धिम
नसी कर्मेन्द्रियपञ्चकं वायुपञ्चकं चेति । ज्ञाने-
न्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघाघ्राणाख्यानि ।
एतान्याकाशादीनां सात्त्विकांशेभ्यो व्यस्ते-
भ्यः पृथक्पृथक् क्रमेणोत्पद्यन्ते । बुद्धिर्नाम नि-
श्यात्मिकान्तःकरणवृत्तिः । मनो नाम संक-
ल्पविकल्पात्मिकान्तःकरणवृत्तिः । अनयोरेव

चित्ताहंकारयोरन्तर्भावः । एते पुनराकाशादि-
५९
 
,
 
त्पत्ति:

 
[commentary]
 
त्पत्तिः
स्यात् तदा यथा तत्रापञ्चीकृतानि तत्तत्कर्मानुरो-
धेन लिङ्गशरीरं जनयन्तीत्युक्तम्, तथा अपञ्चीकृतानि पच्ञ्ची-
कृतानि जनयन्तीत्येवोक्तं स्यात्, न तु पञ्चीकृततामापद्यन्ते
इत्युक्तं स्यादिति । तस्मान्नाप ञ्चीकृतेभ्यः पञ्चीकृतोत्पत्तिरि-
ति । तथा च एतेभ्यः स्थूलभूतान्युत्पद्यन्त इत्यनेन संयोग-
विशेषस्यैवोत्पत्तिरुक्ता भवतीति ज्ञेयम् ॥
 
-
 

 
सूक्ष्मशरीराणि निरूपयति -- सूक्ष्मेति । सप्तेति । सप्त-
दश अवयवा एकदेशा येषां तानि । श्रोत्रादीनां क्रमः तदुत्पा-