This page has been fully proofread twice.

शादिषूत्पद्यन्ते । एतान्येव सूक्ष्मभूतानि तन्मात्राण्यपञ्चीकृतानि चोच्यन्ते । एतेभ्यः सूक्ष्मशरीराणि स्थूलभूतानि चोत्पद्यन्ते ॥
 
[commentary]
 
तसत्त्वरजस्तमःकार्यजाड्यादेरेव उत्पत्तिरुक्तेति मन्तव्यम् । एतानीति, आकाशादीनीत्यर्थः । सूक्ष्मेति, विरलावयवानीत्यर्थः । न तु सूक्ष्मत्वमणुपरिमाणवत्त्वम्, अपञ्चीकृ
तभूतानां व्यापकत्वात् । उच्यन्त इति । श्रुत्यादाविति
शेषः । स्थूलभूतानीति । अत्र गुरवः - अप- अपञ्चीकृतेभ्यः
पञ्चीकृतात्मकस्थूलभूतानां नोत्पत्तिः, मानाभावात् । आत्मने
आकाशाद्युत्पत्तिश्रवणवत् अपञ्चीकृतेभ्यः पञ्चीकृत भूतोत्पत्तेः
श्रवणाभावात्, अपञ्चीकृताङ्गीकारे गौरवाच्च । तस्मात्
यथा तन्तुभ्योऽतिरिक्तो न पटः, किं तु संयोगविशे-
षमापन्नास्तन्तव एव पट:टः, लाघवादतिरिक्तत्वे माना-
भावाचेच्च ; एवमपञ्चीकृतान्यपि पञ्चीकरणात्मक संयोगवि-
शेषमापन्नानि पञ्चीकृतानीत्युच्यन्ते, न त्वपञ्चीकृतेभ्य:
यः पञ्चीकृतान्युत्पद्यन्ते आत्मन इवाकाशः । अत एव तत्त्वदीपने -
दीपने —
- 'अपञ्चीकृतानि प्रारब्धवशात्पञ्चीकृततामाप-

द्यन्ते' इत्युक्तम् । यदि च अपञ्चीकृतेभ्यः पञ्चीकृतभूतो-
तु
 
2