This page has been fully proofread once and needs a second look.

वेदान्तसारः
 
शादिषूत्पद्यन्ते । एतान्येव सूक्ष्मभूतानि त-
न्मात्राण्यपञ्चीकृतानि चोच्यन्ते । एतेभ्यः सृ-
सूक्ष्मशरीराणि स्थूलभूतानि चोत्पद्यन्ते ॥
 

 
५८
 

 
[commentary]
 
तसत्त्वरजस्तमः कार्यजाड्यादेरेव उत्पत्तिरुत्क्तेति मन्तव्यम् ।
एतानीति, आकाशादी नीत्यर्थः । सूक्ष्मेति, विरलावय-
वानीत्यर्थ:थः । न तु सूक्ष्मत्वमणुपरिमाणवत्त्वम्, अपञ्चीकृ

तभूतानां व्यापकत्वात् । उच्यन्त इति । श्रुत्यादाविति

शेषः । स्थूलभूतानीति । अत्र गुरवः - अपचीकृतेभ्यः

पञ्चीकृतात्मकस्थूलभूतानां नोत्पत्तिः, मानाभावात् । आत्मने

आकाशाद्युत्पत्तिश्रवणवत् अपञ्चीकृतेभ्यः पञ्चीकृत भूतोत्पत्तेः

श्रवणाभावात्, अपञ्चीकृताङ्गीकारे गौरवाच्च । तस्मात्

यथा तन्तुभ्योऽतिरिक्तो न पटः, किं तु संयोगविशे-

षमापनास्तन्तव एव पट:, लाघवादतिरिक्तत्वे माना-

भावाचे; एवमपञ्चीकृतान्यपि पञ्चीकरणात्मक संयोगवि-

शेषमापन्नानि पञ्चीकृतानीत्युच्यन्ते, न त्वपञ्चीकृतेभ्य:

पञ्चीकृतान्युत्पद्यन्ते आत्मन इवाकाशः । अत एव तत्त्व-

दीपने — 'अपञ्चीकृतानि प्रारब्धवशात्पञ्चीकृततामाप-



द्यन्ते' इत्युक्तम् । यदि च अपञ्चीकृतेभ्यः पञ्चीकृतभूतो-

तु
 

 
2