This page has been fully proofread twice.

तमःप्रधानविक्षेपशक्तिमदज्ञानोपहितचैतन्यादाकाश आकाशाद्वायुर्वायोरग्निरग्नेरापोऽद्भ्यः पृथिवी चोत्पद्यते, 'एतस्मादात्मन आकाशः संभूतः' इत्यादिश्रुतेः । तेषु जाड्याधिक्यदर्शनात्तमःप्राधान्यं तत्कारणस्य । तदानीं सत्त्वरजस्तमांसि कारणगुणप्रक्रमेण तेष्वाका-
 
[commentary]
 
ऊर्णनाभिः । स्वशरीरेति, लालारूपस्वशरीरावयवप्रधानतयेत्यर्थः । तन्त्वाकारेण हि लालारूपः ऊर्णनाभिशरीरावयवः परिणमते ; न तु तच्छरीरम्, शरीरापाये तन्त्वपायप्रसङ्गात् । तदुक्तं शारीरके -- 'तन्तुनाभस्य क्षुद्रतरजन्तुभक्षणाल्लाला कठिनतामापद्यमाना तन्तुर्भवति' इति । विक्षेपशक्तिप्रधानाज्ञानोपहितेत्यत्रापि पूर्ववदेव व्याख्या ॥
 
तमःप्राधान्ये हेतुमाह -- तेष्विति । तत्कारणस्येति । आकाशादिकारणस्याज्ञानस्येत्यर्थः । तदानीमिति, सृष्टिकाले इत्यर्थः । यद्यप्यज्ञानगतसत्त्वरजस्तमोव्यतिरेकेण तत्कार्ये सत्वरजस्तमांसि न भिन्नानि सन्ति मानाभावात्, अज्ञानगतेषु तु तेषु 'देवात्मशक्तिं स्वगुणैर्निगूढाम्' इत्यादिवचनमेव प्रमाणम् ; तथापि सत्त्वरजस्तमांस्युत्पद्यन्ते इत्यनेन अज्ञानग-