This page has been fully proofread once and needs a second look.

बालबोधिनीसहिंतः ।
 
तमः प्रधानविक्षेपशक्तिमदज्ञानोपहितचैत-
न्यादाकाश आकाशाद्वायुर्वायोरग्निरग्नेरापो-
ऽद्भ्यः पृथिवी चोत्पद्यते, 'एतस्मादात्मन आ-
काशः संभूतः' इत्यादिश्रुतेः । तेषु जाड्याधि
क्यदर्शनात्तमःप्राधान्यं तत्कारणस्य । तदानीं
सत्त्वरजस्तमांसि कारणगुणप्रक्रमेण तेष्वाका-

 
[commentary]
 
ऊर्णनाभि:भिः । स्वशरीरेति, लालारूपस्वशरीरावयवप्रधानत-
येत्यर्थः । तन्त्वाकारेण हि लालारूप:पः ऊर्णना भिशरीरावयवः
परिणमते ; न तु तच्छरीरम्, शरीरापाये तन्त्वपायप्रस -
ङ्गात् । तदुक्तं शारीरके -- 'तन्तुनाभस्य क्षुद्रतरजन्तुभक्ष-

णाल्लाला कठिनतामापद्यमाना तन्तुर्भवति' इति । विक्षे-
पशक्तिप्रधानाज्ञानोपहितेत्यत्रापि पूर्ववदेव व्याख्या
 

 
तमः प्राधान्ये हेतुमाह -- तेष्विति । तत्कारणस्येति ।
आकाशादिकारणस्याज्ञानस्येत्यर्थः । तदानीमिति, सृष्टिकाले
इत्यर्थ:थः । यद्यप्यज्ञानगतसत्त्वरजस्तमोव्यतिरेकेण तत्कार्ये स-
त्वरजस्तमांसि न भिन्नानि सन्ति मानाभावात्, अज्ञानगतेषु
तु तेषु 'देवात्मशक्तितिं स्वगुणैर्निगूढाम्' इत्यादिवचन मेव
प्रमाणम् ; तथापि सत्त्वरजस्त मांस्युत्पद्यन्ते इत्यनेन अज्ञानग
 
-