This page has been fully proofread twice.

शक्तिद्वयवदज्ञानोपहितं चैतन्यं स्वप्रधानतया निमित्तं स्वोपाधिप्रधानतयोपादानं च भवति, यथा लूता तन्तुकार्यं प्रति स्वप्रधानतया निमित्तं स्वशरीरप्रधानतयोपादानं च भवति ॥
 
[commentary]
 
एवमज्ञाने निरूपिते तत्कार्यं निरूपयितुं तत्रोपादानं निमित्तं च निरूपयति -- शक्तीति । अज्ञानोपहितमिति । अज्ञानविषयतोपहितमित्यर्थः, अज्ञानोपहितस्य जीवत्वाज्जीवस्य च अस्वतन्त्रत्वेन जगन्निमित्तत्वाभावात्तदुपादानत्वाभावाच्चेति द्रष्टव्यम् । स्वप्रधानतयेति । निमित्तशब्देन ह्यत्र न दण्डादिसाधारणं निमित्तकारणत्वमात्रमुच्यते, किं तु कर्तृत्वम् । तच्च कार्यानुकूलज्ञानवत्त्वम् । तच्च स्वरूपेणैवेश्वरस्य संभवति । न अविद्याद्वारा, तस्या जडत्वादिति भावः । स्वोपाधीति । उपादानत्वं हि विवर्तमानत्वम् । न तु 'यत्समवेतं कार्यमुत्पद्यते' इत्यादि पराभिमतम्, समवायानङ्गीकारात् । तच्च विवर्तमानत्वं न स्वरूपेण चैतन्यस्य, किं त्वविद्याद्वारेति तस्याः प्राधान्यम् । अत एव विवर्तमानाविद्याधिष्ठानत्वरूपमुपदिापादानत्वमीश्वरस्येत्युक्तमिति भावः । ननु कथमेकस्य निमित्तत्वमुपादानत्वं च ? तत्राह -- यथेति । लूता