This page has been fully proofread once and needs a second look.

वेदान्तसारः
 
शक्तिद्वयवदज्ञानोपहितं चैतन्यं स्वप्रधान-
तया निमित्तं स्वोपाधिप्रधानतयोपादानं च
भवति, यथा लूता तन्तुकार्यं प्रति स्वप्रधानत-
या निमित्तं स्वशरीरप्रधानतयोपादानं च भ
वति ॥
 
-
 

 
[commentary]
 
एवमज्ञाने निरूपिते तत्कार्यं निरूपयितुं तत्रोपादानं
निमित्तं च निरूपयति -- शक्तीति । अज्ञानोपहितमिति ।
अज्ञानविषयतोपहितमित्यर्थः, अज्ञानोपहितस्य जीवत्वा-
ज्जीवस्य च अस्वतन्त्रत्वेन जगन्निमित्तत्वाभावात्तदुपादानत्वा-
भावाञ्च्चेति द्रष्टव्यम् । स्वप्रधानतयेति । निमित्तशब्देन ह्यत्र
नं
दण्डादिसाधारणं निमित्तकारणत्वमात्रमुच्यते, किं तु
कर्तृत्वम् । तच्च कार्यानुकूलज्ञानवत्त्वम् । तच्च स्वरूपेणैवेश्वरस्य
संभवति । न अविद्याद्वारा, तस्या जडत्वादिति भावः । स्वोपा-
धीति । उपादानत्वं हि विवर्तमानत्वम् । न तु 'यत्समवेतं
कार्यमुत्पद्यते' इत्यादि पराभिमतम्, समवायानङ्गीकारान् ।
त् । तच्च विवर्तमानत्वं न स्वरूपेण चैतन्यस्य, किं त्वविद्याद्वा
रेति तस्याः प्राधान्यम् । अत एव विवर्तमानाविद्याधिष्ठान-
त्वरूपमुपदिानत्वमीश्वरस्येत्युक्तमिति भावः । ननु कथमे-
कस्य निमित्तत्वमुपादानत्वं च ? तत्राह -- यथेति । लूता
 
तञ्च,
 
2