This page has been fully proofread twice.

एवमज्ञानमपि स्वावृतात्मनि विक्षेपशक्त्या आकाशादिप्रपञ्चमुद्भावयति, तादृशं सामर्थ्यम् । तदुक्तम् -- 'विक्षेपशक्तिर्लिङ्गादि ब्रह्माण्डान्तं जगत्सृजेत्' इति ॥
 
[commentary]
 
न प्रकाशप्रसक्तिरिति किमर्थं रज्ज्ववच्छिन्नचैतन्ये आवरणम् । अत्रोच्यते -- सत्यं न रज्ज्ववच्छिन्ने चैतन्ये प्रकाशप्रसक्तिः, तस्य भिन्नत्वात् । तथापि न रज्जावावरणं वाच्यम्, आवरणस्य चैतन्ये क्लृप्तत्वात् । मूलाज्ञानस्य चिन्मात्रविषयत्वेन तदावरणस्य चिन्निष्ठत्वात् । अतः परिच्छिन्नाज्ञानावरणमपि चैतन्ये एव वक्तव्यम्, न तु जडे । तदुक्तं जडे आवरणाभावादिति । किं च अतीतानागतस्थले विषयस्यासत्त्वेनावरणाश्रयत्वानुपपत्तेस्तदुपलक्षिते चैतन्ये आवरणं वाच्यमिति तस्यैव सर्वत्र तदाश्रयत्वम् । तस्माद्युक्तमुक्तं रज्ज्ववच्छिन्नचैतन्यस्यावृतत्वम् । रज्जावावृतत्वं त्वदूरविप्रकर्षेण व्यपदिश्यत इति संप्रदायविदः । एवमज्ञानमपीति । मूलाज्ञानमित्यर्थः । तादृशमिति प्रपञ्चजननानुकूलमित्यर्थः । विक्षेपशक्तिरिति । विक्षेपशक्तियुक्ताविद्येत्यर्थः । लिङ्गशब्देन लिङ्गशरीरमुच्यते । तच्चाग्रे वक्ष्यते ॥