This page has been fully proofread once and needs a second look.

बालबोधिनीसहितः ।
 
एवमज्ञानमपि स्वावृतात्मनि विक्षेपशक्त्या आ-
काशादिप्रपञ्चमुद्भावयति, तादृशं सामर्थ्यम् ।
तदुक्तम् -- 'विक्षेपशक्तिर्लिङ्गादि ब्रह्माण्डान्तं
जगत्सृजेत्' इति ॥
 

 
[commentary]
 
न प्रकाशप्रसक्तिरिति किमर्थं रज्ज्ववच्छिन्न
चैतन्ये आवरणम् । अत्रोच्यते -
णम । अत्रोच्यते
- सत्यं न रज्ज्ववच्छिन्ने चैतन्ये प्रका-
572
 
-
 
#
 
5.
 
शप्रसक्तिः, तस्य भिन्नत्वात् । तथापि न रज्जावावरणं वाच्य-
म.
म्, आवरणस्य चैतन्ये क्लृप्तत्वात् । मूलाज्ञानस्य चिन्मा-
त्रविषयत्वेन तदावरणस्य चिन्निष्ठत्वात् । अतः परिच्छिन्ना-
ज्ञानावरणमपि चैतन्ये एव वक्तव्यम्, न तु जडे । तदुक्तं
जडे वरणाभावादिति । किं च अतीतानागतस्थले विषय-
स्यासत्त्वेनावरणाश्रयत्वानुपपत्तेस्तदुपलक्षिते चैतन्ये आवरणं
वाच्यमिति तस्यैव सर्वत्र तदाश्रयत्वम् । तस्माद्युक्तमुक्तं र
ज्ज्ववच्छिन्न चैतन्यस्यावृतत्वम् । रंरज्जावावृतत्वं त्वंदूरविप्रकर्षेण
व्यपदिश्यत इति संप्रदायविदः । एवमज्ञानमपीति । मूला-
ज्ञानमित्यर्थ:थः । तादृशमिति प्रपञ्चजननानुकूलमित्यर्थः ।
विक्षेपशक्तिरिति । विश्लेक्षेपशक्तियुक्तांताविद्येत्यर्थः । लिङ्गशब्दे-
न लिङ्गशरीरमुच्यते । तच्चाग्रे वक्ष्यते ॥