This page has been fully proofread twice.

रिति चेत् ; अत्र वदन्ति -- इदमाकारवृत्तिदशायां प्रमातृचैतन्याभिन्नमपि रज्ज्ववच्छिन्नं चैतन्यं न स्फुरति । अतस्तत्रावरणं वक्तव्यम् । अन्यथाभेदापन्नत्वेन स्फुरणापत्तेः । न च इदमाकारवृत्त्येदमंशावच्छिन्नमेव चैतन्यं प्रमातृचैतन्याभिन्नं न तु रज्ज्ववच्छिन्नमिति वाच्यम्, इदंत्वरज्जुत्वयोर्व्याप्यवृत्तित्वेनेदमाकारवृत्तिदशायां रज्ज्ववच्छिन्नस्यापि प्रमातृचैतन्याभिन्नत्वादिति । तन्न ; इदंत्वरज्जुत्वयोर्व्याप्यवृत्तित्वेऽपि इदमंशावच्छिन्नचैतन्यं रज्ज्ववच्छिन्नचैतन्यम् उत नेति वक्तव्यम् । अभिन्नं चेत्, तदेदमंशावच्छिन्नस्य स्फुरणात् रज्ज्ववच्छिन्नस्यापि चैतन्यस्य स्फुरणं वक्तव्यम् । न ह्यभेदे स्फुरणतदभावौ वक्तुं युक्तौ । ततश्च व्यर्थमावरणम्, स्फुरणप्रसक्तौ तदभावे सति तस्य कल्पनात्, इदंत्वरज्जुत्वयोर्भिन्नत्वेन तदवच्छिन्नचैतन्ययोरभेदानुपपत्तेश्च । भिन्नमिति चेत्,
तर्हि इदंवृत्त्येदमंशावच्छिन्नमेव चैतन्यं प्रमातृचैतन्याभिन्नम्, न तु रज्ज्ववच्छिन्नम् । न ह्यन्याकारवृत्यान्यदभेदापन्नं भवति । अन्यथा घटाकारवृत्त्या त्वगिन्द्रियजन्यया रूपावच्छिन्नमपि चैतन्यं प्रमातृचैतन्याभिन्नं स्यात्, इदंत्वरज्जुत्वयोरिव रूपघटत्वयोरपि व्याप्यवृत्तित्वात् । तस्मान्नेदंवृत्त्या रज्ज्ववच्छिन्नचैतन्यं प्रमातृचैतन्याभिन्नम् । भेदे च