This page has not been fully proofread.

वेदान्तसारः ।
 
रिति चेत् ; अत्र वदन्ति - इदमाकारवृत्तिदशायां प्रमातृ-
चैतन्याभिन्नमपि रज्ज्ववच्छिन्नं चैतन्यं न स्फुरति । अत-
स्तत्रावरणं वक्तव्यम् । अन्यथाभेदापन्नत्वेन स्फुरणापत्तेः । न
च इदमाकारवृत्त्येदमंशावच्छिन्नमेव चैतन्यं प्रमातृचैतन्या-
भिन्नं न तु रज्ज्ववच्छिन्नमिति वाच्यम्, इदंत्वरज्जुत्वयोर्व्या-
प्यवृत्तित्वेनेदमा कारवृत्तिदंशायां रज्ज्ववच्छिन्नस्यापि प्रमातृ-
चैतन्याभिन्नत्वादिति । तन्न ; इदंत्वरज्जुत्वयोर्व्याप्यवृत्तित्वेऽपि
इदमंश।वच्छिन्नचैतन्यं रज्ज्ववच्छिन्नचैतन्यम् उत नेति वक्त-
व्यम् । अभिन्नं चेत्, तदेदमंशावच्छिन्नस्य स्फुरणात् रज्ज्वव-
च्छिन्नस्यापि चैतन्यस्य स्फुरणं वक्तव्यम् । न ह्यभेदे स्फुर-
णतदद्भावौ वक्तुं युक्तौ । ततश्च व्यर्थमावरणम्, स्फुरणप्र-
सक्तौ तदभावे सति तस्य कल्पनात्, इदंत्वरज्जुत्वयोभिन्न-
त्वेन तदवच्छिन्न चैतन्ययोरभेदानुपपत्तेश्च । भिन्नमिति चेत्,
तर्हि इदं वृत्त्येद मंशावच्छिन्नमेव चैतन्यं प्रमातृचैतन्याभिन्नमं,
न तु रज्ज्ववच्छिन्नम् । न ह्यन्याकांरवृत्यान्यदभेदापनं
भवति । अन्यथा घटाकारवृत्त्या त्वगिन्द्रियंजन्यया रूपा-
वच्छिन्नमपि चैतन्यं प्रमातृचैतन्याभिन्नं स्यात् इदंत्वरज्जु-
व्वयोरिव रूपघटत्वयोरपि व्याप्यवृत्तित्वात् । तस्मान्नेदं-
वृत्त्या रज्ज्ववच्छिन्न चैतन्यं प्रमातृचैतन्याभिन्नम् । भेदे च
 
-
 
3
 
५४
 
"3"
 
"'*
 
"g