This page has been fully proofread twice.

नित्योपलब्धिस्वरूपोऽहमात्मा' इति । अनयैवावरणशक्त्यावच्छिन्नस्यात्मनः कर्तृत्वभोक्तृत्वसुखदुःखमोहात्मकतुच्छसंसारभावनापि संभाव्यते यथा स्वाज्ञानेनावृतायां रज्ज्वां सर्पत्वसंभावना । विक्षेपशक्तिस्तु यथा रज्ज्वज्ञानं स्वावृतरज्जौ स्वशक्त्या सर्पादिकमुद्भावयति,
 
[commentary]
 
युक्तस्येत्यर्थः । ननु किमिदमावरणम् ? शृणु -- 'नास्ति' 'न प्रकाशते' इत्यादिव्यवहारालम्बनत्वयोग्यता । सा च आवश्यिकी । अन्यथा स्वप्रकाशत्वेन 'अस्ति' 'प्रकाशते' इत्यादिव्यवहारयोग्ये ब्रह्मणि 'नास्ति, न प्रकाशते ब्रह्म' इति व्यवहारानुपपत्तेः । अनयेति । आवरणशक्तियुक्तया अविद्ययेत्यर्थः । अधिष्ठानावरणे भ्रमः संभवति, तज्ज्ञाने भ्रमानुपपत्तेरिति भावः । स्वावृतरज्जाविति । अज्ञानेनावृते रज्ज्ववच्छिन्ने चैतन्य इत्यर्थः । न च रज्जुरेवावृता किं न स्यादिति वाच्यम्, तस्या जडत्वेन प्रकाशाप्रसक्तेः । प्रकाशप्रसक्तौ च प्रकाशाभावे आवरणकल्पनात् । नन्वेवं रज्ज्ववच्छिन्ने चैतन्येऽप्यावरणं न स्यात्, तस्य स्वप्रकाशत्वेऽपि पुरुषान्तरसंवेदनवद्भिन्नत्वेन प्रकाशाप्रसक्ते-