वेदान्तसारो बालबोधिनीसहितः /169 Edit | History ← Previous ← | Next → → 2023-10-09 09:11:01 by Bharadwajraki This page has been fully proofread once and needs a second look. बालबोधिनीसहितः । नित्योपलब्धिस्वरूपोऽहमात्मा' इति । अनयैवा- वरणशक्त्यावच्छिन्नस्यात्मनः कर्तृत्वभोक्तृत्व- सुखदुःखमोहात्मकतुच्छ संसारभावनापि सं- भाव्यते यथा स्वाज्ञानेनावृतायां रज्ज्वां सर्प- त्वसंभावना । विक्षेपशक्तिस्तु यथा रज्ज्वज्ञानं स्वावृतरज्जौ स्वशक्त्या सर्पादिकमुद्भावयति, [commentary] युक्तस्येत्यर्थ:थः । ननु किमिदमावरणम् ? शृणु – 'नास्ति' -- 'नास्ति' 'न प्रकाशते' इत्यादिव्यवहारालम्बनत्व योग्यता । सा च आवश्ययिकी । अन्यथा स्वप्रकाशत्वेन 'अस्ति हा- ' 'प्रकाशते' इत्यादिव्यवहारयोग्ये ब्रह्मणि 'नास्ति, न प्रकाशते , । ब्रह्म' इति व्यवहारानुपपत्तेः । अनयेति । आवरण- शक्तियुक्तया अविद्ययेत्यर्थः । अधिष्ठानावरणे भ्रमः संभ- वति, तज्ज्ञाने भ्रमानुपपत्तेरिति भावः । स्वावृतरज्जा- विति । अज्ञानेनावृते रज्ज्ववच्छिन्ने चैतन्य इत्यर्थः । न च रज्जुरेवावृता किं न स्यादिति वाच्यम्, तस्या जडत्वेन प्रका- शाप्रसक्तेः । प्रकाशप्रसक्तौ च प्रकाशाभावे. आवरणकल्प- नात् । नन्वेवं रज्ज्ववच्छिन्ने चैतन्येऽप्यावरणं न स्यात्, त स्य स्वप्रकाशत्वेऽपि पुरुषान्तर संवेदनवद्भिन्नत्वेन प्रकाशाप्रसक्ते- , ५३ 6