This page has not been fully proofread.

बालबोधिनीसहितः ।
 
नित्योपलब्धिस्वरूपोऽहमात्मा' इति । अनयैवा-
वरणशक्त्यावच्छिन्नस्यात्मनः कर्तृत्वभोक्तृत्व-
सुखदुःखमोहात्मकतुच्छ संसारभावनापि सं-
भाव्यते यथा स्वाज्ञानेनावृतायां रज्ज्वां सर्प-
त्वसंभावना । विक्षेपशक्तिस्तु यथा रज्ज्वज्ञानं
स्वावृतरज्जौ स्वशक्त्या सर्पादिकमुद्भावयति,
 
युक्तस्येत्यर्थ: । ननु किमिदमावरणम् शृणु – 'नास्ति'
'न प्रकाशते' इत्यादिव्यवहारालम्बनत्व योग्यता । सा
च आवश्यकी । अन्यथा स्वप्रकाशत्वेन 'अस्ति
 
हा-
शते' इत्यादिव्यवहारयोग्ये ब्रह्मणि 'नास्ति, न प्रकाशते
 
,
 

 
ब्रह्म इति व्यवहारानुपपत्तेः । अनयेति । आवरण-
शक्तियुक्तया अविद्ययेत्यर्थः । अधिष्ठानावरणे भ्रमः संभ-
वति, तज्ज्ञाने भ्रमानुपपत्तेरिति भावः । स्वावृतरज्जा-
विति । अज्ञानेनावृते रज्ज्ववच्छिन्ने चैतन्य इत्यर्थः । न च
रज्जुरेवावृता किं न स्यादिति वाच्यम्, तस्या जडत्वेन प्रका-
शाप्रसक्तेः । प्रकाशप्रसक्तौ च प्रकाशाभावे. आवरणकल्प-
नात् । नन्वेवं रज्ज्ववच्छिन्ने चैतन्येऽप्यावरणं न स्यात्, त
स्वप्रकाशत्वेऽपि पुरुषान्तर संवेदनवद्भिन्नत्वेन प्रकाशाप्रसक्ते-
,
 
५३
 
6