This page has been fully proofread twice.

क्तिद्वयम् । आवरणशक्तिस्तावदल्पोऽपि मेघोऽनेकयोजनायतमादित्यमण्डलमवलोकयितृनयनपथपिधायकतया यथाच्छादयतीव, तथाज्ञानं परिच्छिन्नमप्यात्मानमपरिच्छिन्नमसंसारिणमवलोकयितृबुद्धिपिधायकतयाच्छादयतीव, तादृशं सामर्थ्यम् । तदुक्तम् -- 'घनच्छनदृष्टिर्घनच्छन्नमर्कं यथा मन्यते निष्प्रभं चातिमूढः । तथा बद्धवद्भाति यो मूढदृष्टेः स
 
[commentary]
 
रूपं शक्तिद्वयमुक्तमिति न भ्रमितव्यम्, आवरणविक्षेपयोः शक्तित्वाभावात् । आवरणं हि चैतन्यनिष्ठम् । आवरणशक्तिस्त्वज्ञाननिष्ठत्वेन व्यवह्रियते सांप्रदायिकैः । विक्षेपस्तु कार्यम् । तत्राज्ञानं कारणम् । कारणं च सिद्धान्ते शक्तिमदित्यावश्यकी विक्षेपानुकूला अज्ञानशक्तिरिति । आवरणं च यद्यपि नाज्ञानकार्यं तस्यानादित्वात्, तथापि तत्प्रयोज्यं भवत्येवेति तदनुकूलाप्यज्ञाने शक्तिरावश्यिकी । तस्मादावरणविक्षेपनामकमित्यावरणविक्षेपानुकूलमित्यर्थः । ननु कथं
परिच्छिन्नमज्ञानमपरिच्छिन्नमात्मानमाच्छादयतीत्याशङ्क्य दृष्टत्वादित्याह -- अल्पोऽपीति । मृढदृष्टेरिति । अज्ञान-