This page has been fully proofread once and needs a second look.

। बेदान्तसारः
 
क्तिद्वयम् । आवरणशक्तिस्तावदल्पोऽपि मे-
घोऽनेकयोजनायतमादित्यमण्डलमवलोकयितृ-
नयनपथपिधायकतया यथाच्छादयतीव, तथा-
ज्ञानं परिच्छिन्नमप्यात्मानमपरिच्छिन्नमसंसा-
रिणमवलोकपियितृबुद्धिपिधायकतयाच्छादयती-
व, तादृशं सामर्थ्यम् । तदुक्तम् -- 'घनच्छ-
नदृष्टिर्घनच्छन्नमर्कं यथा मन्यते निष्प्रभं चा-
तिमूढः । तथा बद्धवद्भाति यो मूढदृष्टेः स

 
[commentary]
 
रूपं शक्तिद्वयमुक्तमिति न भ्रमितव्यम्, आवरणविक्षेपयो:
योः शक्तित्वाभावात् । आवरणं हि चैतन्यनिष्ठम् । आवरणश-
क्तिस्त्वज्ञाननिष्ठत्वेन व्यवहिह्रियते सांप्रदायिकैः । विक्षेपस्तु
कार्यम् । तत्राज्ञानं कारणम् । कारणं च सिद्धान्ते शक्ति-
मदित्यावश्यकी विक्षेपानुकूला अज्ञानशक्तिरिति । आवरणं
चं
यद्यपि नाज्ञानकार्ये तखायं तस्यानादित्वात्, तथापि तत्प्रयोज्यं
भवत्येवेति तदनुकूलाप्यज्ञाने शक्तिरावश्यिकी । तस्मादाव-
रणविक्षेपना मकमित्यावरणविक्षेपानुकूलमित्यर्थः । ननु कथं

परिच्छिन्नमज्ञानमपरिच्छिन्नमात्मानमाच्छादयतीत्याशङ्क्य दृ-
वृ
ष्टत्वादित्याह -- अल्पोऽपीति । मृढदृष्टेरिति । अज्ञान-
५२