This page has not been fully proofread.

। बेदान्तसारः
 
क्तिद्वयम् । आवरणशक्तिस्तावदल्पोऽपि मे-
घोऽनेकयोजनायतमादित्यमण्डलमवलोकयितृ-
नयनपथपिधायकतया यथाच्छादयतीव, तथा-
ज्ञानं परिच्छिन्नमप्यात्मानमपरिच्छिन्नमसंसा-
रिणमवलोकपितृबुद्धिपिधायकतयाच्छादयती-
व, तादृशं सामर्थ्यम् । तदुक्तम् – 'घनच्छ-
नदृष्टिर्घनच्छन्नमर्क यथा मन्यते निष्प्रभं चा-
तिमूढः । तथा बद्धवद्भाति यो मूढदृष्टेः स
रूपं शक्तिद्वयमुक्तमिति न भ्रमितव्यम्, आवरणविक्षेपयो:
शक्तित्वाभावात् । आवरणं हि चैतन्यनिष्ठम् । आवरणश-
क्तिस्त्वज्ञाननिष्ठत्वेन व्यवहियते सांप्रदायिकैः । विक्षेपस्तु
कार्यम् । तत्राज्ञानं कारणम् । कारणं च सिद्धान्ते शक्ति-
मदित्यावश्यकी विक्षेपानुकूला अज्ञानशक्तिरिति । आवरणं
चं यद्यपि नाज्ञानकार्ये तखानादित्वात्, तथापि तत्प्रयोज्यं
भवत्येवेति तदनुकूलाप्यज्ञाने शक्तिरावश्यिकी । तस्मादाव-
रणविक्षेपना मकमित्यावरणविक्षेपानुकूलमित्यर्थः । ननु कथं
परिच्छिन्नमज्ञानमपरिच्छिन्नमात्मानमाच्छादयतीत्याशङ्कय दृ-
वृत्वादित्याह- अल्पोऽपीति । मृढदृष्टेरिति । अज्ञान-
५२