This page has been fully proofread twice.

वनवृक्षतदवच्छिन्नाकाशयोर्जलाशयजलतद्गतप्रतिबिम्बाकाशयोर्वाधारभूतानुपहिताकाशवत्, अनयोरज्ञानतदुपहितचैतन्ययोराधारभूतं यदनुपहितं चैतन्यं तत्तुरीयमित्युच्यते, 'शिवमद्वैतं चतुर्थं मन्यन्ते' इत्यादिश्रुतेः । इदमेव तुरीयं शुद्धचैतन्यमज्ञानादितदुपहितचैतन्याभ्यां तप्तायःपिण्डवदविविक्तं सन्महावाक्यस्य वाच्यम्, विविक्तं सल्लक्ष्यमिति चोच्यते ॥
 
अस्याज्ञानस्यावरणविक्षेपनामकमस्ति श-
 
[commentary]
 
स्येति प्रौढिवादेन एतदुक्तमिति न दोषः ॥
 
आधारभूतमधिष्ठानभूतमित्यर्थः । जीवेश्वरौ तदुपहितचैतन्यशव्दार्थः । तच्छब्द उक्तोपाधिपरामर्शी । तुरीयं चतुर्थम् । चतुर्थमित्यज्ञानजीवेश्वरेभ्य इत्यर्थः ; यद्वा जाग्रत्स्वप्नसुषुप्त्यवस्थाभ्य इत्यर्थः । अज्ञानादीति । अत्र विषयता आदिशब्दार्थः । महावाक्यस्येति, तत्त्वमसिवाक्यस्येत्यर्थः ॥
 
एवं जीवेश्वरौ निरूप्य अज्ञाने शक्तिद्वयं निरूपयति -- अस्येति । अत्रावरणविक्षेपनामकमित्यनेनावरणविक्षेपस्व-