This page has been fully proofread once and needs a second look.

बालबोधिनीसहितः ।
 
वनवृक्षतवच्छिन्नाकाशयोर्जलाशयजलत
द्गतप्रतिविबिम्बाकाशयोर्वाधारभूतानुपहिताका
शवत्, अनयोरज्ञानतदुपहितचैतन्ययोराधार:
भूतं यदनुपहितं चैतन्यं तत्तुरीयमित्युच्यते,
'शिवमद्वैतं चतुर्थं मन्यन्ते' इत्यादिश्रुतेः । इद-
मेव तुरीयं शुद्धचैतन्यमज्ञानादितदुपहितचैत-
न्याभ्यां तप्तायः पिण्डवदविविक्तं सन्महावाक्य
स्य वाच्यम्, विविक्तं सल्लक्ष्यमिति चोच्यते ॥

 
अस्याज्ञानस्यावरणविक्षेपनामकमस्ति श
 

 
[commentary]
 
स्येति प्रौढिवादेन एतदुक्तमिति न दोषः ॥
 
..
 

 
आधारभूतमधिष्ठानभूतमित्यर्थः । जीवेश्वरौ तदुपहि-
तचैतन्यशव्दार्थः । तच्छन्ब्द उक्तोपाधिपरामर्शी । तुरीयं च-
तुर्थम् । चतुर्थमित्यज्ञानजीवेश्वरेभ्य इत्यर्थः ; यद्वा जाग्रत्स्वप्न-
सुषुप्त्यवस्थाभ्य इत्यर्थः । अज्ञानादीति । अत्र विषयता आ-
दिशब्दार्थ:थः । महावाक्यस्येति, तत्त्वमसिवाक्यस्येत्यर्थः ॥
 
-
 

 
एवं जीवेश्वरौ निरूप्य अज्ञाने शक्तिद्वयं निरूपयति
-- अस्येति । अत्रावरणविक्षेपनाम कमित्यनेनावरणविक्षेपस्व-