This page has been fully proofread once and needs a second look.

वेदान्तसारः
 
न्नाकाशयोरिव जलाशयजलगतप्रतिबिम्बाका
शयोरिव वाभेद'दः, 'एष सर्वेश्वरः' इत्यादि
श्रुतेः ॥
 

 

 
[commentary]
 
बोध्यते । उपाध्योरभेदे उपहितयोरप्यभेदः शक्त्या प्रतीय-
मान:नः संभवतीति किं लक्षणया । तस्मान्नोपहितयोरभेद
इत्यनुपपन्नोऽयं ग्रन्थ इति चेत् ; अन्रोच्यते -- उपाध्योरभेद
इत्यत्र अभेदशब्देन नैक्यमुच्यते, विरोधात् । किं तु भेदश-
ब्देन भेदयतीति व्युत्पत्त्या भेदकत्वमुच्यते, तदभावोऽभेदः ।
एतदुक्तं भवति -- उपाधिभ्यां हि वस्तुतो न वस्तु भिद्यते ।
न हि घटपटाभ्यां परशुच्छिन्नदारुवदाकाशो भिद्यते ।
किं तु उप समीपे स्थित्वा स्वनिष्ठभेदजातीयो भेदोऽनिर्वच-.
नीयस्तत्रासज्ज्यते । तस्मादुपाध्योर्न वास्तवं भेदकत्वमिति
प्रथमाभेदशब्देनोच्यते । तत्र दृष्टान्तमाह -- वनेति । यथा
वनवृश्चक्षयोर्जलाशयजलयोर्वा न वास्तवं व्योमभेदकत्वम्
, तद्वत्प्रकृतोपाध्योरपि न वास्तवं तदित्यर्थः । उपाध्योर्वास्त-
वभेदकत्वाभावे उपहितयोर्वास्तवोऽभेद इत्याह द्वितीयाभ-
भेदशब्देन । न त्वभेदशब्देनोपहितयोर्भेद एव नास्तीत्युच्यते ।
तस्मान्न विरोध:धः । यद्वा आत्मभेदवादिनं प्रति शाम्यतु दुर्जन
इति न्यायेन औपाधिकयोरप्यभेदः, किं पुनः स्वरूपचैतन्य -
 
,
 
2
 
9