2023-10-09 08:14:35 by Bharadwajraki
This page has been fully proofread twice.
एतदुपहितयोरीश्वरप्राज्ञयोरपि वनवृक्षावच्छि-
[commentary]
न्यथानुपपत्त्या सुषुप्तावविद्यावृत्तिरावश्यिकी । ईश्वरस्य तु न स्मरणमस्ति, किं तु केवलं सुखानुभवः । स च स्वरूपचैतन्येनैव संभवतीति किमर्थमज्ञानवृत्तिः स्वीकार्या । अतोऽज्ञानवृत्तिभिरित्यग्रे स्वरूपचैतन्येनेत्यपि ज्ञेयमिति । एतदुपहितयोरिति । ननु वनवृक्षावच्छिन्नाकाशयोरभेदो युक्तः,
वृक्षातिरिक्तवनाभावेन वृक्षावच्छिन्नाकाशस्यैव वनाकाशत्वात्, स्वतन्त्रोपाधेरभावात् । नैवं जीवेश्वरयोरौपाधिकयोरभेदो युक्तः, उपाध्योर्भेदात् । न च तयोरप्यभेदो युक्तः ; तथा सत्युपाध्योरभेदे उपहितयोरप्यभेदात्सर्वज्ञत्वकिंचिज्ज्ञत्वादिधर्मसंकरात् ; उपाधिनिरूपणवैयर्थ्यापाताच्च । स्वरूपचैतन्यस्यैकत्वेन विरुद्धधर्मसांकर्यं मा भूदित्युपाधिभेदनिरूपणेन विरुद्धधर्मव्यवस्था क्रियते । उपाध्यभेदे च विरुद्धधर्मव्यवस्था न संभवतीति तन्निरूपणमनर्थकमापद्येत । 'एष सर्वेश्वरः' इति श्रुतौ नोपहितयोरभेद उच्यते ; किं
तु विरुद्धधर्मपरित्यागेन स्वरूपचैतन्यस्याभेद उच्यते । उपहितयोरभेदे तत्त्वमसिवाक्ये लक्षणावैयर्थ्यप्रसङ्गाच्च । तत्र हि शक्त्योपहितयोरभेद उच्यते । स च उपाध्योर्भेदेन न संभवतीति लक्षणया उपाध्योः परित्यागेन स्वरूपचैतन्यमात्रं