2023-03-01 15:22:25 by ambuda-bot
This page has not been fully proofread.
बालबोधिनीसहितः ।
एतदुपहितयोरीश्वरप्राज्ञयोरपि वनवृक्षावच्छि-
न्यथानुपपत्त्या सुषुप्तावविद्यावृत्तिरावश्यिकी । ईश्वरस्य तु
न स्मरणमस्ति, किंतु केवलं सुखानुभव: । स च स्वरूप-
चैतन्येनैव संभवतीति किमर्थमज्ञानवृत्तिः स्वीकार्या । अतो-
ऽज्ञानवृत्तिभिरित्यग्रे स्वरूपचैतन्येनेत्यपि ज्ञेयमिति । एतदुप-
हितयोरिति । ननु वनवृक्षावच्छिन्नाकाशयोरभेदो युक्तः,
वृक्षातिरिक्तवनाभावेन वृक्षावच्छिन्नाकाशस्यैव वनाकाश-
त्वात्, स्वतन्त्रोपाधेरभावात् । नैवं जीवेश्वरयोरौपाधिकयो-
रभेदो युक्तः, उपाध्योर्भेदात् । न च तयोरप्यभेदो युक्तः;
तथा सत्युपाध्योरभेदे उपहितयोरप्यभेदात्सर्वज्ञत्व किंचिज्ज्ञ-
त्वादिधर्मसंकरात्; उपाधिनिरूपणवैयर्थ्यापाताञ्च । स्वरूप-
चैतन्यस्यैकत्वेन विरुद्धधर्मसांकर्ये मा भूदित्युपाधिभेदनि-
रूपणेन विरुद्धधर्मव्यवस्था क्रियते । उपाध्यभेदे च विरु..
द्धधर्मव्यवस्था न संभवतीति तन्निरूपणमनर्थकमापद्येत ।
एष सर्वेश्वरः' इति श्रुतौ नोपहितयोरभेद उच्यते; किं
तु विरुद्धधर्मपरित्यागेन स्वरूपचैतन्यस्याभेद उच्यते । उप-
हितयोरभेदे तत्त्वमसिवाक्ये लक्षणावैयर्थ्यप्रसङ्गाच्च । तत्र
हि शक्त्योपहितयोरभेद उच्यते । स च उपाध्योर्भेदेन न
संभवतीति लक्षणया उपाध्योः परित्यागेन स्वरूपचैतन्यमात्रं
6
* V 4