This page has been fully proofread twice.

हमस्वाप्सम्, न किंचिदवेदिषम्' इत्युत्थितस्य परामर्शोपपत्तेश्च । अनयोः समष्टिव्यष्ट्योर्वनवृक्षयोरिव जलाशयजलयोरिव वाभेदः ।
 
[commentary]
 
तत्राह -- सुखमहमिति । प्रथमत उत्थितस्य 'सुखमहमस्वाप्सम्, न किंचिदवेदिषम्' इति परामर्शस्तावज्जायते । स नानुमानम्, लिङ्गाद्यनुसंधानमन्तरेणापि जायमानत्वात् । किं तु स्मरणम् । तच्च न दुःखाभावस्य, सुषुप्तौ दुःखानुभवाभावेन दुःखाभावानुभवाभावात् ; अभावज्ञाने
प्रतियोगिज्ञानम्स्य कारणत्वात्, असति च दुःखाभावानुभवे तद्विषयस्य स्मरणस्यानुपपन्नत्वात् । ततश्च सुखस्य स्मरणं वक्तव्यम् । तदपि न जन्यं सुखम्, तस्य सुषुप्तावनुभवायोगात् । किं तु नित्यस्यैव सुखस्य स्मरणं वक्तव्यम् । स्मरणं च संस्कारजन्यम् । संस्कारश्चानुभवजन्य इति नित्यसुखस्य सुषुप्तावनुभवो वक्तव्यः । स च चिद्रूपः । तस्य नित्यत्वेन संस्कारानाधायकत्वात्, प्रकारान्तरस्य च असंभवात् । अतोऽविद्यावृत्त्यैव नित्यानन्दस्फुरणं वक्तव्यम् । तया च संस्कारजनने उत्थितस्य 'सुखमहमस्वाप्सम्' इति स्मरणसंभवात् । स्वरूपचैतन्येनैवानन्दस्फुरणे तस्य नित्यत्वेन संस्कारानाधायकत्वात्स्मरणानुपपत्तिप्रसङ्गात् । तस्मात्स्मरणा-