This page has not been fully proofread.

वेदान्तसारः
 
हमखाप्सभ्, न किंचिदवेदिषम्' इत्युत्थितस्य
परामर्शोपपत्तेश्च । अनयोः समष्टिव्यष्टयोर्व-
नवृक्षयोरिव जलाशयजलयोरिव वाभेदः ।
तत्राह - - सुखमहमिति । प्रथमत उत्थितस्य 'सुखमहम-
स्वाप्सम्, न किंचिदवेदिषम्' इति परामर्शस्तावज्जायते ।
स नानुमानम्, लिङ्गाद्यनुसंधानमन्तरेणापि जायमान-
त्वात् । किंतु स्मरणम् । तच्च न दुःखाभावस्य, सुषुप्तौ
दुःखानुभवाभावेन दुःखाभावानुभवाभावात्; अभावज्ञाने
प्रतियोगिज्ञानम्य कारणत्वात्, असति च दुःखाभावानुभवे
तद्विषयस्य स्मरणस्यानुपपन्नत्वात् । ततश्च सुखस्य स्मरणं
वक्तव्यम् । तदपि न जन्यं सुखम् तस्य सुषुप्तावनुभवायो-
गात् । किं तु नित्यस्यैव सुखस्य स्मरणं वक्तव्यम् । स्मरणं
च संस्कारजन्यम् । संस्कारश्चानुभवजन्य इति नित्यसु-
खस्य सुषुप्तावनुभवो वक्तव्यः । स च चिद्रूपः । तस्य नित्य-
त्वेन संस्कारानाधायकत्वात्, प्रकारान्तरस्य च असंभवात् ।
अतोऽविद्यावृत्त्यैव नित्यानन्दस्फुरणं वक्तव्यम् । तया च
संस्कारजनने उत्थितस्य 'सुखमहमस्खाप्सम्' इति स्मरणसं-
भवात् । स्वरूपचैतन्येनैवानन्दस्फुरणे तस्य नित्यत्वेन सं
स्कारानाधायकत्वात्स्मरणानुपपत्तिप्रसङ्गात् । तस्मात्स्मरणा-
,
 
४८