This page has been fully proofread twice.

प्रपञ्चलयस्थानमिति चोच्यते ॥
 
तदानीमेतावीश्वरप्राज्ञौ चैतन्यदीप्ताभिरतिसूक्ष्माभिरज्ञानवृत्तिभिरानन्दमनुभवतः,
'आनन्दभुक्चेतोमुखः प्राज्ञः' इति श्रुतेः, 'सुखम-
 
[commentary]
 
भूतेयं व्यष्टिरूपाविद्येत्यर्थः ॥
 
तदानीमिति । सुषुप्तिदशायामित्यर्थः । ईश्वरेति । यद्यपीश्वरस्य न सुषुप्तिः जागराद्यवस्थानां जीवसंबन्धित्वात्, तथापीश्वरसुषुप्तिपदेन प्रलयो द्रष्टव्यः । एतच्चोपलक्षणम्, ईश्वरस्य सदानन्दस्फुरणादिति बोध्यम् । अज्ञानवृत्त्या च आनन्दस्फुरणं जीवस्यैव, ईश्वरस्य च स्वत एवेति मन्तव्यम् । चैतन्यदीप्ताभिरिति । वृत्तिर्ह्युत्पद्यमाना चिद्व्याप्तैवोत्पद्यते, वृत्तेस्तथैव स्वभावात् । तदुक्तम् -- 'वियद्वस्तुस्वभावानुरोधादेव न कारकात् । तद्वत्संपूर्णतोत्पत्तौ कुम्भस्येवं दृशो धियाम्' इति । अत एव च वृत्तौ परेषां चित्त्वभ्रम इति भावः । अतिसूक्ष्माभिरिति । अस्पष्टाभिरित्यर्थः । तासां
कल्प्यत्वादिति भावः । चेतोमुख इति । चैतन्यं मुखवद्भासमानं यस्य स ईश्वर इत्यर्थः । ननु सुषुप्तिदशायां किमज्ञानवृत्त्या, आनन्दस्फुरणस्येश्वरवज्जीवस्यापि स्वत एव संभवात्,