This page has been fully proofread twice.

सत्त्वप्रधाना । एतदुपहितं चैतन्यमल्पज्ञत्वानीश्वरत्वादिगुणकं प्राज्ञ इत्युच्यते, एकाज्ञानावभासकत्वात् । अस्य प्राज्ञत्वमस्पष्टोपाधितयानतिप्रकाशकत्वात् । अस्यापीयमहंकारादिकारणत्वात् कारणशरीरम्, आनन्दप्रचुरत्वात्कोशवदाच्छादकत्वाच्चानन्दमयकोशः, सर्वोपरमत्वात्सुषुप्तिः, अत एव स्थूलसूक्ष्मशरीर-
 
[commentary]
 
याभिप्रायेणेत्यर्थः । एतदुपहितमिति । अविद्योपहितं चैतन्यं जीव इत्यर्थः । नन्वविद्याधीनं जीवत्वं जीवाश्रिता च अविद्येत्यन्योन्याश्रय इति चेत्, न, तस्य प्रकृतेऽदोषत्वात् । तथा हि -- उत्पत्तिः प्रतिबन्धनीया । सा च न, अविद्याजीवयोरनादित्वात् । तया ज्ञप्तिः प्रतिबन्धनीया । न, जीवस्य
स्वप्रकाशत्वेन स्फुरणात् ; अविद्यायास्तत्राध्यस्तत्वेन स्फुरणादिति । व्यष्टेर्जीवोपाधित्वे हेतुमाह -- एकेति । जीवाल्पज्ञत्वे प्रमाणमाह -- अस्येति । अस्य प्राज्ञस्य अनतिप्रकाशकत्वात् । अनतिप्रकाशकत्वे हेतुमाह -- अस्पष्टेति । मलिनसत्त्वप्रधानाज्ञानोपाधित्वादित्यर्थः । अस्य जीवस्य । उपाधि-