This page has been fully proofread twice.

श्रुतेः । ईश्वरस्येयं समष्टिरखिलकारणत्वात्कारणशरीरम्, आनन्दप्रचुरत्वात्कोशवदाच्छादकत्वाच्चानन्दमयकोशः, सर्वोपरमत्वात्सुषुप्तिः, अत एव स्थूलसूक्ष्मप्रपञ्चलयस्थानमिति चोच्यते । यथा वनस्य व्यष्ट्यभिप्रायेण 'वृक्षाः' इत्यनेकत्वव्यपदेशः, यथा वा जलाशयस्य व्यष्ट्यभिप्रायेण 'जलानि' इति, तथाज्ञानस्य व्यष्ट्यभिप्रायेण तदनेकत्वव्यपदेशः,
'इन्द्रो मायाभिः पुरुरूप ईयते' इत्यादिश्रुतेः । अत्र व्यस्तसमस्तव्यापित्वेन व्यष्टिसमष्टिताव्यपदेशः । इयं व्यष्टिर्निकृष्टोपाधितया मलिन-
 
[commentary]
 
शेषतः । सर्वेति । सर्वस्योपरमो यस्यां सा तस्या भावस्तत्वम्, तस्मादित्यर्थः । अत एवेति । सर्वोपरमत्वादेवेत्यर्थः । पञ्चीकृतापञ्चीकृतरूपः स्थूलसूक्ष्मप्रपञ्चः । उच्यत इति । श्रुताविति शेषः । व्यष्ट्यभिप्रायेणेति । प्रत्येकाज्ञानाभिप्रायेणेत्यर्थः । इन्द्र इति । इन्द्रः परमात्मा, प्रकरणात्, मायाभिरज्ञानैः पुरुरूपो बहुरूप ईयते प्रतीयत इत्यर्थः । अत्रेति । अज्ञान इत्यर्थः । व्यस्तसमस्तव्यापित्वेनेति । प्रत्येकसमुदा-