This page has been fully proofread once and needs a second look.

बालबोधिनीसहितः ।
 
श्रुतेः । ईश्वरस्येयं समष्टिरखिलकारणत्वात्का
रणशरीरम्, आनन्दप्रचुरत्वात्कोशवदाच्छा-
दकत्वाच्चानन्दमयकोशः, सर्वोपरमत्वात्सुषु-
प्तिः, अत एव स्थूलसूक्ष्मप्रपञ्चलयस्थानमिति
चोच्यते । यथा वनस्य व्यष्ट्यभिप्रायेण 'वृ
क्षाः' इत्यनेकत्वव्यपदेशः, यथा वा जलाश-
यस्य व्यष्टयभिप्रायेण 'जलानि' इति, तथा-
ज्ञानस्य व्यष्ट्यभिप्रायेण तदनेकत्वव्यपदेशः,

'इन्द्रो मायाभिः पुरुरूप ईयते' इत्यादिश्रुतेः ।
अत्र व्यस्तसमस्तव्यापित्वेन व्यष्टिसमष्टिता-
व्यपदेशः । इयं व्यष्टिर्निकृष्टोपाधितया मलिन-

 
[commentary]
 
शेषतः । सर्वेति । सर्वस्योपरमो यस्यां सा तस्या भावस्त
त्वम्, तस्मादित्यर्थः । अत एवेति । सर्वोपरमत्वादेवेत्यर्थः ।
पञ्चीकृतापञ्चीकृतरूपः स्थूलसूक्ष्मप्रपञ्चः । उच्यत इति ।
श्रुताविति शेष: । व्यष्टषः । व्यष्ट्यभिप्रायेणेति । प्रत्येकाज्ञानाभिप्राये-
णेत्यर्थः । इन्द्र इति । इन्द्रः परमात्मा, प्रकरणात्, मायाभि-
रज्ञानैः पुरुरूपो बहुरूप ईयते प्रतीयत इत्यर्थः । अत्रेति ।
अज्ञान इत्यर्थः । व्यस्त समस्तव्यापित्वेनेति । प्रत्येकसमुदा-