This page has been fully proofread twice.

भासकत्वात्, 'यः सर्वज्ञः सर्ववित्' इति
 
[commentary]
 
प्रत्येकवृक्षावच्छिन्नाकाशेभ्यो भिन्न एव, उपाधेभिन्नत्वात् । एवं प्रत्येकाज्ञानोपहिजीवानामनेकत्वेऽपि तद्विषयताया एकत्वात्तदुपहितेश्वरस्यैकत्वमुपपद्यत एव । न च अज्ञानानामनेकत्वे तद्विषयता कथमेकेति वाच्यम् । समवायवदुपपत्तेः । यथा हि परेषां मते घटपटादीनामनेकत्वेऽपि तन्निरूपितसमवायस्यैकत्वम्, घटनाशे च तन्निरूपितत्वमेव नश्यति, न समवायः ;
एवमेकैकाज्ञाननाशेऽपि विषयतायास्तन्निरूपितत्वमात्रं नश्यति, नाज्ञानविषयतेति तदुपहितेश्वरस्य यावत्सर्वमुक्त्यवस्थानमुपपद्यते । चरममुक्तिदशायां तु तत्त्वज्ञानेनाविद्यानिवृत्तौ तत्प्रयोज्या विषयतापि निवर्तत इति चिन्मात्रमवशिष्यते । तस्मात्सुष्ठूक्तमज्ञानविषयतोपहित ईश्वर इति । तदुक्तं कल्पतरौ -- 'जीवाश्रिताभिरविद्याभिर्विषयीकृतत्वमुपाधिः' इति । स च सत्त्वप्रधानाज्ञानविषयतोपहितो विष्णुः । स च अखिलस्य जगतः पालकः । रजःप्रधानाज्ञानविषयतोपहितो ब्रह्मा । स चाखिलस्य जगतः स्रष्टा । तमः प्रधानाज्ञानविषयतोपहितो
रुद्रः । स च अखिलस्य जगतः संहर्ता । एते च त्रयोऽनादिसिद्धा व्यापकाः सर्वज्ञाश्चेति । ईश्वरसर्वज्ञत्वे प्रमाणमाह -- यः सर्वज्ञ इति । सर्वज्ञ इति सामान्यतः, सर्वविदिति वि-