This page has been fully proofread once and needs a second look.

वेदान्तसारः
 
भासकत्वात्,
 
'यः सर्वज्ञः सर्ववित्' इति
 

 
[commentary]
 
प्रत्येक वृक्षावच्छिन्नाकाशेभ्यो भिन्न एव, उपाधेभिन्नत्वात् । एवं
प्रत्येकाज्ञानोपहिजीवानामनेकत्वेऽपि तद्विषयताया एकत्वा-
त्तदुपहितेश्वरस्यैकत्वमुपपद्यत एव । न च अज्ञानानामनेकत्वे
तद्विषयता कथमेकेति वाच्यम् । समवायवदुपपत्तेः । यथा हि
परेषां मते घटपटादीनामनेकत्वेऽपि तन्निरूपितसमवायस्यैक-
त्वम
त्वम्, घटनाशे च तन्निरूपितत्वमेव नश्यति, न समवाय:यः ;

एवमेकैका ज्ञाननाशेऽपि विषयतायास्तन्निरूपितत्त्रमात्रं नश्य-
ति, नाज्ञानविषयतेति तदुपहितेश्वरस्य यावत्सर्वमुक्त्यवस्थान-
मुपपद्यते । चरममुक्तिदशायां तु तत्त्वज्ञानेनाविद्यानिवृत्तौ तत्प्र-
योज्या विषयतापि निवर्तत इति चिन्मात्रमवशिष्यते ।
तस्मात्सुष्ृष्ठूक्तमज्ञानविषयतोपहित ईश्वर इति । तदुक्तं कल्पतरौ -
- 'जीवाश्रिताभिरविद्याभिर्विषयीकृतत्वमुपाधिः' इति ।
स च सत्त्वप्रधानाज्ञानविषयतोपहितो विष्णुः । स च अखिल-
स्य जगतः पालक: । रज: कः । रजःप्रधानाज्ञानविषयतोपहितो ब्रह्मा ।
स चाखिलस्य जगतः स्रष्टा । तमः प्रधानाज्ञानविषयतोपहितो

रुद्रः । स च अखिलस्य जगतः संहर्ता । एते च त्रयोऽनादि-
सिद्धा व्यापका:काः सर्वज्ञाश्चेति । ईश्वर सर्वज्ञत्वे प्रमाणमाह -
- यः सर्वज्ञ इति । सर्वज्ञ इति सामान्यतः, सर्वविदिति वि-
तरौ
 
४४