This page has been fully proofread twice.

णमीश्वर इति च व्यपदिश्यते सकलाज्ञानाव-
 
[commentary]
 
रज्ञानसमष्टिः कुतः, अज्ञानव्यष्टिरेव किं न स्यात् ? अत आह -- सकलेति । जीवानां हि प्रत्येकमज्ञानव्यष्टयः स्फुरन्ति, नाज्ञानसमुदायः, मानाभावात् । ईश्वरस्य तु सकलान्यज्ञानानि स्फुरन्ति, तस्य सर्वज्ञत्वात् । अतोऽज्ञानसमष्टिरीश्वरोपाधिरित्यर्थः । अत्रास्मद्गुरवः -- नाज्ञानसमष्टिरीश्वरोपाधिः । अज्ञानसमष्टिर्ह्यज्ञानसमुदायः, वनमिव वृक्षसमुदायः ; समुदायश्च न समुदायिभ्यो भिन्नः, मानाभावात् । एवं च वनमनेकवृक्षात्मकमेव । तथा अज्ञानसमष्टिरप्यनेकाज्ञानात्मिकैव । वनावच्छिन्नश्च आकाशः अनेकवृक्षावच्छिन्नाकाशसमुदायान्न भिन्नः, अनेकवृक्षातिरिक्तोपाधेरभावात् । उपाधिभेदाभावे च उपहितभेदाभावात् । एवं च अज्ञानसमूहोपहितं चैतन्यं नेश्वरः, अज्ञानसमूहोपहितस्य चैतन्यस्य प्रत्येकाज्ञानोपहितसमुदायरूपत्वात्, जीवसमुदायस्य च अनीश्वरत्वात् । ततश्च नाज्ञानसमष्टिरीश्वरोपाधिरिति । तस्मादत्राज्ञानसमष्टिपदेनानेकाज्ञाननिरूपिता वाचस्पतिमिश्रसंमतैका विषयतैवोक्तेति मन्तव्यम् । सैव च ईश्वरोपाधिः, अज्ञातस्य ब्रह्मण ईश्वरत्वात् । वनावच्छिन्नाकाशपदेनाप्यनेकवृक्षसंबन्धी य एकदेशस्तदवच्छिन्नाकाश एवोच्यते । स च