This page has not been fully proofread.

बालबोधिनीसहितः ।
 
णमीश्वर इति च व्यपदिश्यते सकलाज्ञानाव-
रज्ञानसमष्ट्रिः कुतः, अज्ञानव्यष्टिरेव किं न स्यात् ? अत आह
 
- सकलेति । जीवानां हि प्रत्येकमज्ञानव्यष्ट्रयः स्फुरन्ति,
 
--
 
४३
 
नाज्ञानसमुदाय:, मानाभावात् । ईश्वरस्य तु सकलान्यज्ञा-
नानि स्फुरन्ति, तस्य सर्वज्ञत्वात् । अतोऽज्ञानसमष्ट्रिरीश्व-
रोपाधिरित्यर्थः । अत्रास्मगुरवः – नाज्ञानसमष्टिरीश्वरोपा-
धि: । अज्ञानसमष्ट्रिर्ह्यज्ञानसमुदाय:, वनमिव वृक्षसमुदाय: ;
समुदायश्च न समुदायिभ्यो भिन्नः, मानाभावात् । एवं च
वनमनेकवृश्चात्मकमेव । तथा अज्ञानसमष्टिरप्यनेकाज्ञानात्मि-
कैव । वनावच्छिन्नश्च आकाश: अनेकवृक्षावच्छिन्ना काशसमु-
दायान्न भिन्नः, अनेकवृक्षातिरिक्तोपाधेरभावात् । उपाधिभे-
दाभावे च उपहितभेदाभावात् । एवं च अज्ञानसमूहोपहितं
चैतन्यं नेश्वरः, अज्ञानसमूहोपहितस्य चैतन्यस्य प्रत्ये-
का ज्ञानोपहित समुदाय रूपत्वात्, जीवसमुदायस्य च अनीश्व-
रत्वात् । ततश्च नाज्ञानसमष्टिरीश्वरोपाधिरिति । तस्मा-
दत्राज्ञानसमष्टिपदेना नेकाज्ञाननिरूपिता वाचस्पतिमिश्रसं-
मतैका विषयतैवोक्तेति मन्तव्यम् । सैव च ईश्वरोपाधिः,
अज्ञातस्य ब्रह्मण ईश्वरत्वात् । वनावच्छिन्नाकाशपदेनाप्यनेक-
वृक्षसंबन्धी य एकदेशस्तदवच्छिन्नाकाश एवोच्यते । स च