This page has been fully proofread twice.

जीवगताज्ञानानां समष्ट्यभिप्रायेण तदेकत्वव्यपदेशः, 'अजामेकाम्' इत्यादिश्रुतेः । इयं
समष्टिरुत्कृष्टोपाधितया विशुद्धसत्त्वप्रधाना । एतदुपहितं चैतन्यं सर्वज्ञत्वसर्वेश्वरत्वसर्वनियन्तृत्वादिगुणकमव्यक्तमन्तर्यामी जगत्कार-
 
[commentary]
 
पत्तेः । तत्त्वज्ञानेनाज्ञानानिवृत्तौ तत्त्वज्ञानिनोऽपि मोक्षो न स्यात्, अज्ञानसत्त्वात् । तस्मादज्ञानभेदो वक्तव्यः । 'अजामेकाम्' इति श्रुतौ त्वेकत्वव्यपदेशः समष्ट्यभिप्रायेण जात्यभिप्रायेण वेत्युक्तम् । श्रुतौ अजाशब्देन अनादिसिद्धाविद्या उच्यते । लोहितशुक्लकृष्णपदैश्च रजःसत्त्वतमांस्युच्यन्ते । सरूपां स्वसदृशीम्, अनिर्वचनीयामित्यर्थः । विशुद्धेति । यद्यपि समष्टेरीश्वरोपाधित्वे पालनार्थं सत्त्वप्राधान्यवत्सृष्टिसंहारार्थं रजस्तमःप्राधान्यमप्यस्त्येव, तथा च सत्त्वस्यैवोक्तिर्विरुद्धा ; तथाप्यस्मिन्ग्रन्थे सत्त्वप्राधान्यं न पालनार्थमुक्तम्, किं त्वीश्वरं प्रति समष्टेर्मोहानापादकत्वात् । अत
एवाह -- उत्कृष्टेति । व्यष्टेस्तु जीवं प्रति मोहापादकत्वान्मलिनसत्त्वप्राधान्यमुक्तमिति मन्तव्यम् । एतदुपहितमिति । अज्ञानसमष्ट्युपहितमित्यर्थः । नन्वीश्वरोपाधि-