2023-10-08 09:15:51 by Bharadwajraki
This page has been fully proofread twice.
यथा वा जलानां समष्ट्यभिप्रायेण 'जलाशयः' इति, तथा नानात्वेन प्रतिभासमानानां
[commentary]
अज्ञानसमुदायाभिप्रायेणेत्यर्थः ; जात्यभिप्रायेण वा इत्यर्थः ; जात्यभिप्रायेणैकत्वव्यपदेश इत्यप्याहुः । अथाज्ञानं लाघवादेकमेव किं न स्यात्, अत आह -- नानात्वेनेति । नानात्वेन प्रतिभासमानेति जीवविशेषणं साभिप्रायम् । अयमभिप्रायः -- जीवभेदस्तावदावश्यिकः, बद्धमुक्तप्रतिभासात् ।
बद्धास्तावदस्मदादयः प्रतीयन्ते । मुक्ता अपि 'शुको मुक्तः' 'वामदेवो मुक्तः' इत्यादिशास्त्रे प्रतीयन्ते । न चैतस्य शास्त्रस्य मुख्येऽर्थे संभवत्यौपचारिकत्वं न्याय्यम् । न चैकस्य जीवस्य बद्धत्वं मुक्तत्वं च संभवति । अतो जीवभेद आवश्यिकः । किं च क्रममुक्तिफलान्युपासनानि श्रूयन्ते । श्रूयते च 'न तस्य प्राणा उत्क्रामन्ति' इत्यादिशास्त्रादिहैव मुक्तिः । एतदुभयं जीवभेदे सत्युपपन्नं भवति -- कस्यचिज्जीवस्योपासनाविशेषेण क्रममुक्तिः, अन्यस्य जीवस्य श्रवणाद्यभ्यासपरिपाकवशेनोत्पन्नतत्त्वज्ञानस्येहैव मुक्तिरिति । जीवैक्ये त्वेतदनुपपन्नं भवतीति जीवभेद आवशियकः । जीवभेदेऽज्ञानभेदोऽपि वक्तव्यः, अन्यथा कस्यचिज्जीवस्य तत्त्वज्ञानेनाज्ञाने निवृत्ते जीवान्तरस्य बन्धानुप-