This page has been fully proofread once and needs a second look.

बालबोधिनीसहितः ।
 
-
 
यथा वा जलानां समष्ट्यभिप्रायेण 'जला-
शयः' इति, तथा नानात्वेन प्रतिभासमानानां

 
[commentary]
 
अज्ञानसमुदायाभिप्रायेणेत्यर्थः ; जात्यभिप्रायेण वा इत्यर्थः ;
जात्यभिप्रायेणैकत्वव्यपदेश इत्यप्याहुः । अथाज्ञानं लाघवा-
देकमेव किं न स्यात्, अत आह -- नानात्वेनेति । नाना-
त्वेन प्रतिभासमानेति जीवविशेषणं साभिप्रायम् । अय । अयमभिप्रायः -
भिप्रायः
- जीवभेदस्तावदावश्यिकः, बद्धमुक्तप्रतिभासात् ।

बद्धास्तावदस्मदादयः प्रतीयन्ते । मुक्ता अपि 'शुको
मुक्त:
मुक्तः' 'वामदेवो मुक्त: तः' इत्यादिशास्त्रे प्रतीयन्ते । न
चैतस्य शास्त्रम्स्य मुख्येऽर्थे संभवत्यौपचारिकत्वं न्याय्यम ।
म् । न चैकस्य जीवस्य बद्धत्वं मुक्तत्वं च संभवति । अतो
जीवभेद आवश्यिकः - किं च क्रममुक्तिफलान्युपासनानि
श्रूयन्ते । श्रूयते च ' न तस्य प्राणा उत्क्रामन्ति' इत्यादि-
शास्त्रादिहैव मुक्ति:तिः । एतदुभयं जीवभेदे सत्युपपन्नं भवति -
- कस्यचिज्जीवस्योपासनाविशेषेण क्रममुक्ति:तिः, अन्यस्य जीव-
म्
स्य श्रवणाद्यभ्यासपरिपाकवशेनोत्पन्नतत्त्वज्ञानस्येहैव मुक्ति
रिति । जीवैक्ये त्वेतदनुपपन्नं भवतीति जीवभेद आवशिय-
कः । जीवभेदेऽज्ञानभेदोऽपि वक्तव्यः, अन्यथा कस्यचि.
ज्जीवस्य तत्त्वज्ञानेनाज्ञाने निवृत्ते जीवान्तरस्य बन्धानुप-

 
४१