This page has been fully proofread twice.

इदमज्ञानं समष्टिव्यष्ट्यभिप्रायेणैकमनेकमिति च व्यवह्रियते । तथा हि -- यथा वृक्षाणां
समष्ट्यभिप्रायेण 'वनम्' इत्येकत्वव्यपदेशः,
 
[commentary]
 
परैः स्वीक्रियते तद्वद्रजतं स्वीकार्यम् । तस्य च अवश्यमुपादानत्वं वक्तव्यम्, निरुपादानस्याभावकार्यस्यासंभवात् । तच्चान्वयव्यतिरेकाभ्यामज्ञानमेव । तदपि यद्यभावरूपं तदा नोपादानत्वयोग्यमिति भावरूपमेव स्वीकार्यम् । अभावत्वाद्भावत्वस्य लघुत्वाच्च । तस्माद्भावरूपमेवाज्ञानं स्वीकार्यमिति । देवेति । देवस्य ईश्वरस्य आत्मशक्तिम् आत्मनः कारणत्वनिर्वाहिकामित्यर्थः । स्वगुणैः सत्त्वरजस्तमोभिः । एवं च भावरूपमज्ञानं स्वीकर्तव्यम्, विशेषादर्शनस्य गुणाश्रयत्वानुपपत्तेरिति भावः ॥
 
ननु किमज्ञानमनेकम्, उतैकम् ? नाद्यः, 'अजामेकाम्' इति श्रुतिविरोधात् । नान्त्यः, 'इन्द्रो मायाभिः' इति श्रुतिविरोधापत्तेः । तत्राह -- इदमज्ञानमिति । व्यष्ट्यभिप्रायेणानेकमिति व्यवह्रियते, समष्ट्यभिप्रायेणैकमिति व्यवह्रियत इति योजना, एकपदस्य समष्टिपदेनाव्यवधानात् ।
अज्ञानान्यनेकान्येव ; श्रुतावेकत्वव्यपदेशस्तु समष्ट्यभिप्रायेण,