This page has not been fully proofread.

४०
 
वेदान्तसार:
 
इदमज्ञानं
 
समष्टिव्यष्ट्यभिप्रायेणैकमनेक
 
मिति च व्यवयिते । तथा हि – यथा वृक्षाणां
समष्टयभिप्रायेण 'वनम्' इत्येकत्वव्यपदेशः,
 
परैः स्वीक्रियते तद्वद्रजतं स्वीकार्यम् । तस्य च अवश्यमुपादान-
त्वं वक्तव्यम्, निरुपादानस्याभावकार्यस्यासंभवात् । तच्चान्व-
यव्यतिरेकाभ्यामज्ञानमेव । तदपि यद्यभावरूपं तदा नोपा-
दानत्वयोग्यमिति भावरूपमेव स्वीकार्यम् । अभावत्वाद्भाव-
त्वस्य लघुत्वाच्च । तस्माद्भावरूपमेवाज्ञानं स्वीकार्यमिति ।
देवेति । देवस्य ईश्वरस्य आत्मशक्तिम् आत्मनः कारणत्व-
निर्वाहिकामित्यर्थः । स्वगुणैः सत्त्वरजस्तमोभिः । एवं च
भावरूपमज्ञानं स्वीकर्तव्यम, विशेषादर्शनस्य गुणाश्रयत्वानु-
पपत्तेरिति भावः ॥
 
,
 
ननु किमज्ञानमनेकम्, उतैकम् ? नाद्य:, 'अजामेकाम्'
इति श्रुतिविरोधात् । नान्त्यः, 'इन्द्रो मायाभिः' इति
श्रुतिविरोधापत्तेः । तत्वाह - इदमज्ञानमिति । व्यष्टथभि
प्रायेणानेकमिति व्यवहियते, समष्टयभिप्रायेणैकमिति व्यव
हियत इति योजना, एकपदस्य समष्टिपदेनाव्यवधानात् ।
अज्ञानान्यनेकान्येव ; श्रुतावेकत्वव्यपदेशस्तु समष्टयभिप्रायेण