वेदान्तसारो बालबोधिनीसहितः /155 Edit | History ← Previous ← | Next → → 2023-10-08 08:59:35 by Bharadwajraki This page has been fully proofread once and needs a second look. बालबोधिनीसहितः । ज्ञानविरोधि भावरूपं यत्किंचिदिति वदन्ति ; 'अहमज्ञः' इत्याद्यनुभवात्, 'देवात्मशक्तिं स्वगुणैर्निगूढाम्' इत्यादिश्रुतेश्च ॥ , [commentary] अतोऽनिर्वचनीयमित्यर्थ:थः । त्रिगुणात्मकं सत्त्वरजस्तमोलक्ष- णगुणत्रयाश्रय इत्यर्थः । यत्किंचिदिति । अत्र यत्किंचि च्छब्देन नानिर्वचनीयत्वमुच्यते, तस्यानिर्वचनीयशब्देनैवो- क्तत्वात् । नापि ज्ञानविरोधित्वम्, तस्यापि ज्ञानविरोधि- शब्देनोक्तत्वात् । नापि मिथ्यात्वम्, तस्य पूर्वफक्किकाया- मुक्तत्वात् । किं तु भ्रमोपादानत्वम् । एतच्चाज्ञानलक्षणम् । भ्रमोपादानत्वं च भ्रमाकारेण विवर्तमानत्वम् । तेन विवर्त- मानाविद्याधिष्ठानत्वरूपभ्रमोपादानत्ववतीश्वरे नातिव्याप्तिः । अज्ञानस्य भावत्वे प्रमाणमाह -- अहमज्ञ इति । अयं - भावः -- 'अह्हमज्ञः' 'मामन्यं च न जानामि' 'शास्त्रार्थ थं न जानामि' इत्यनुगतः प्रत्ययो दृश्यते । स च अनुगतविषय- मन्तरेण अनुपपन्न इत्यनुगतो विषयो वक्तव्यः । स च न ज्ञानसामान्याभावः, तस्यात्मन्यसंभवात् । नापि विशेषा- भाव:वः, तेषामननुगतत्वात् । तस्मादनुगतप्रत्ययान्यथानुपपत्त्या भावरूपमज्ञानं स्वीकर्तव्यं सत्तावत् । यथा हि 'घट:टः सन् - 9 ' इत्यनुगतप्रत्ययान्यथानुपपत्त्या सत्ता सामान्यं 6 , ३९ "