2023-03-01 15:22:23 by ambuda-bot
This page has not been fully proofread.
बालबोधिनीसहितः ।
ज्ञानविरोधि भावरूपं यत्किंचिदिति वदन्ति;
'अहमज्ञः' इत्याद्यनुभवात्, 'देवात्मशक्तिं
स्वगुणैर्निगूढाम्' इत्यादिश्रुतेश्च ॥
,
अतोऽनिर्वचनीयमित्यर्थ: । त्रिगुणात्मकं सत्त्वरजस्तमोलक्ष-
णगुणत्रयाश्रय इत्यर्थः । यत्किंचिदिति । अत्र यत्किंचि
च्छदेन नानिर्वचनीयत्वमुच्यते, तस्यानिर्वचनीयशब्देनैवो-
तत्वात् । नापि ज्ञानविरोधित्वम् तस्यापि ज्ञानविरोधि-
शब्देनोक्तत्वात् । नापि मिथ्यात्वम् तस्य पूर्वफक्किकाया-
मुक्तत्वात् । किं तु भ्रमोपादानत्वम् । एतच्चाज्ञानलक्षणम् ।
भ्रमोपादानत्वं च भ्रमाकारेण विवर्तमानत्वम् । तेन विवर्त-
मानाविद्याधिष्ठानत्वरूपभ्रमोपादानत्ववतीश्वरे नातिव्याप्तिः ।
अज्ञानस्य भावत्वे प्रमाणमाह - अहमज्ञ इति । अयं
-
भावः-- 'अह्मज्ञः' 'मामन्यं च न जानामि' 'शास्त्रार्थ
न जानामि' इत्यनुगतः प्रत्ययो दृश्यते । स च अनुगतविषय-
मन्तरेण अनुपपन्न इत्यनुगतो विषयो वक्तव्यः । स च न
ज्ञानसामान्याभावः, तस्यात्मन्यसंभवात् । नापि विशेषा-
भाव:, तेषामननुगतत्वात् । तस्मादनुगतप्रत्ययान्यथानुपपत्त्या
भावरूपमज्ञानं स्वीकर्तव्यं सत्तावत् । यथा हि 'घट: सन्
-
9
इत्यनुगतप्रत्ययान्यथानुपपत्त्या सत्ता सामान्यं
6
,
३९
"